(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.76. अध्यायः 076
Mahabharata - Vana Parva - Chapter Topics
नलेन पुनः स्वपुरंप्रत्यागमनम् ॥ 1 ॥ तथा पुनर्द्यूतेन पुष्रं पराजित्य तस्य तत्पुरं प्रतियापनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-76-0x(1973)(18799)
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः।
पुरादल्पपरीवारो जगाम निषधान्प्रति ॥ 3-76-1(18800)
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ 3-76-2(18801)
स कम्पयन्निव महीं त्वरमाणो महापुरीम्।
प्रविवेशाथ संरब्धस्तरसैव महामनाः ॥ 3-76-3(18802)
ततः पुष्करमासाद्य वीरसेनसुतो नलः।
उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ॥ 3-76-4(18803)
दमयन्ती च यच्चान्यन्मम किंचन विद्यते।
एष वै मम संन्यासस्तव राज्यंतु पुष्कर ॥ 3-76-5(18804)
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ 3-76-6(18805)
जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु।
प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ॥ 3-76-7(18806)
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ 3-76-8(18807)
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा।
येनकेनाप्युपायेन वृद्धानामिति शासनम् ॥ 3-76-9(18808)
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर।
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ॥ 3-76-10(18809)
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव।
ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ॥ 3-76-11(18810)
दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध।
दिष्ट्या च दुष्कृतंकर्म दमयन्त्याः क्षयं गतम् ॥ 3-76-12(18811)
दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध।
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ॥ 3-76-13(18812)
धनेनानेन वै भैमी जितेन समलंकृता।
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ 3-76-14(18813)
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध।
देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ॥ 3-76-15(18814)
जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम्।
कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ॥ 3-76-16(18815)
श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः।
इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः ॥ 3-76-17(18816)
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः।
पणावः किं व्याहरसे जितो न व्याहरिष्यसि ॥ 3-76-18(18817)
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च।
एकपाणेन भद्रं ते नलेन स पराजितः ॥ 3-76-19(18818)
स रत्नकोशनिचयैः प्राणेन पणितोपि च।
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ॥ 3-76-20(18819)
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम्।
वैदर्भी न त्वया शक्या राजापशद वीक्षितम्।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ 3-76-21(18820)
न त्वया तत्कृतंकर्म येनाहं विजितः पुरा।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥ 3-76-22(18821)
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन।
यथासुखं वै जीवत्वंप्राणानवसृजामि ते ॥ 3-76-23(18822)
तथैव सर्वसंभारं स्वमंशं वितरामि ते।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ 3-76-24(18823)
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति।
पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम् ॥ 3-76-25(18824)
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः।
वचनैस्तोषयामास परिष्वज्य पुनः पुनः ॥ 3-76-26(18825)
सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम्।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ 3-76-27(18826)
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ 3-76-28(18827)
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः।
प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः ॥ 3-76-29(18828)
महत्या सेनया सार्धंविनीतैः परिचारकैः।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥ 3-76-30(18829)
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ॥ 3-76-31(18830)
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः।
`हितेषु चैषां सततं पितेवावहितोऽभवत्' ॥ 3-76-32(18831)
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः।
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ॥ 3-76-33(18832)
3-76-34(18833)
अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-76-1 उष्य वासं कृत्वा ॥ 3-76-5 श्मयन्त्या च यच्चान्यज्जयत्वं सुसमार्जितमिति ध. पाठः .। 3-76-6 राज्यं एकपाणेनैव मम तुदमयन्त्यादि च प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्तः ॥ 3-76-7 प्राणो हि धनमुच्यते इति ध. पाठः ॥ 3-76-9 प स्तगतं राज्यंइतिध. पाठः ॥ 3-76-13 दिष्ट्याच ध्रियसे राजन्सदारोऽद्य महाभुजेति झ. पाठः ॥ 3-76-18 पणाय किं व्याहरसे शीघ्रं द्यूतं प्रवर्ततामिति क. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.